ऋग्वेद · अध्याय 6.051
उद् उ त्यच् चक्षुर् महि मित्रयोर् आँ एति प्रियं वरुणयोर् अदब्धम् ।
ऋतस्य शुचि दर्शतम् अनीकं रुक्मो न दिव उदिता व्य् अद्यौत् ॥
वेद यस् त्रीणि विदथान्य् एषां देवानां जन्म सनुतर् आ च विप्रः ।
ऋजु मर्तेषु वृजिना च पश्यन्न् अभि चष्टे सूरो अर्य एवान् ॥
स्तुष उ वो मह ऋतस्य गोपान् अदितिम् मित्रं वरुणं सुजातान् ।
अर्यमणम् भगम् अदब्धधीतीन् अच्छा वोचे सधन्यः पावकान् ॥
रिशादसः सत्पतीँर् अदब्धान् महो राज्ञः सुवसनस्य दातॄन् ।
यूनः सुक्षत्रान् क्षयतो दिवो नॄन् आदित्यान् याम्य् अदितिं दुवोयु ॥
द्यौ3ष् पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो मृळता नः ।
विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥
मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः ।
यूयं हि ष्ठा रथ्यो नस् तनूनां यूयं दक्षस्य वचसो बभूव ॥
मा व एनो अन्यकृतम् भुजेम मा तत् कर्म वसवो यच् चयध्वे ।
विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस् तन्वं रीरिषीष्ट ॥
नम इद् उग्रं नम आ विवासे नमो दाधार पृथिवीम् उत द्याम् ।
नमो देवेभ्यो नम ईश एषां कृतं चिद् एनो नमसा विवासे ॥
ऋतस्य वो रथ्यः पूतदक्षान् ऋतस्य पस्त्यसदो अदब्धान् ।
ताँ आ नमोभिर् उरुचक्षसो नॄन् विश्वान् व आ नमे महो यजत्राः ॥
ते हि श्रेष्ठवर्चसस् त उ नस् तिरो विश्वानि दुरिता नयन्ति ।
सुक्षत्रासो वरुणो मित्रो अग्निर् ऋतधीतयो वक्मराजसत्याः ॥
ते न इन्द्रः पृथिवी क्षाम वर्धन् पूषा भगो अदितिः पञ्च जनाः ।
सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥
नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता ।
आसानेभिर् यजमानो मियेधैर् देवानां जन्म वसूयुर् ववन्द ॥
अप त्यं वृजिनं रिपुं स्तेनम् अग्ने दुराध्यम् ।
दविष्ठम् अस्य सत्पते कृधी सुगम् ॥
ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः ।
जही न्य् अ1त्रिणम् पणिं वृको हि षः ॥
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
कर्ता नो अध्वन्न् आ सुगं गोपा अमा ॥
अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0