भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.049

6.049.01

स्तुषे जनं सुव्रतं नव्यसीभिर् गीर्भिर् मित्रावरुणा सुम्नयन्ता ।
त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥

6.049.02

विशो-विश ईड्यम् अध्वरेष्व् अदृप्तक्रतुम् अरतिं युवत्योः ।
दिवः शिशुं सहसः सूनुम् अग्निं यज्ञस्य केतुम् अरुषं यजध्यै ॥

6.049.03

अरुषस्य दुहितरा विरूपे स्तृभिर् अन्या पिपिशे सूरो अन्या ।
मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥

6.049.04

प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥

6.049.05

स मे वपुश् छदयद् अश्विनोर् यो रथो विरुक्मान् मनसा युजानः ।
येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥

6.049.06

पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतम् अप्यानि ।
सत्यश्रुतः कवयो यस्य गीर्भिर् जगतः स्थातर् जगद् आ कृणुध्वम् ॥

6.049.07

पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
ग्नाभिर् अच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥

6.049.08

पथस्-पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनळ् अर्कम् ।
स नो रासच् छुरुधश् चन्द्राग्रा धियं-धियं सीषधाति प्र पूषा ॥

6.049.09

प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिम् ऋभ्वम् ।
होता यक्षद् यजतम् पस्त्यानाम् अग्निस् त्वष्टारं सुहवं विभावा ॥

6.049.10

भुवनस्य पितरं गीर्भिर् आभी रुद्रं दिवा वर्धया रुद्रम् अक्तौ ।
बृहन्तम् ऋष्वम् अजरं सुषुम्नम् ऋधग् घुवेम कविनेषितासः ॥

6.049.11

आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् ।
अचित्रं चिद् धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥

6.049.12

प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिर् अस्तम् ।
स पिस्पृशति तन्वि श्रुतस्य स्तृभिर् न नाकं वचनस्य विपः ॥

6.049.13

यो रजांसि विममे पार्थिवानि त्रिश् चिद् विष्णुर् मनवे बाधिताय ।
तस्य ते शर्मन्न् उपदद्यमाने राया मदेम तन्वा3 तना च ॥

6.049.14

तन् नो ऽहिर् बुध्न्यो अद्भिर् अर्कैस् तत् पर्वतस् तत् सविता चनो धात् ।
तद् ओषधीभिर् अभि रातिषाचो भगः पुरंधिर् जिन्वतु प्र राये ॥

6.049.15

नु नो रयिं रथ्यं चर्षणिप्राम् पुरुवीरम् मह ऋतस्य गोपाम् ।
क्षयं दाताजरं येन जनान् स्पृधो अदेवीर् अभि च क्रमाम विश आदेवीर् अभ्य् अ1श्नवाम ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc