ऋग्वेद · अध्याय 6.046
त्वाम् इद् धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
स त्वं नश् चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः ।
गाम् अश्वं रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥
यः सत्राहा विचर्षणिर् इन्द्रं तं हूमहे वयम् ।
सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥
बाधसे जनान् वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम ।
अस्माकम् बोध्य् अविता महाधने तनूष्व् अप्सु सूर्ये ॥
इन्द्र ज्येष्ठं न आ भरँ ओजिष्ठम् पपुरि श्रवः ।
येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥
त्वाम् उग्रम् अवसे चर्षणीसहं राजन् देवेषु हूमहे ।
विश्वा सु नो विथुरा पिब्दना वसो ऽमित्रान् सुषहान् कृधि ॥
यद् इन्द्र नाहुषीष्व् आँ ओजो नृम्णं च कृष्टिषु ।
यद् वा पञ्च क्षितीनां द्युम्नम् आ भर सत्रा विश्वानि पौंस्या ॥
यद् वा तृक्षौ मघवन् द्रुह्याव् आ जने यत् पूरौ कच् च वृष्ण्यम् ।
अस्मभ्यं तद् रिरीहि सं नृषाह्ये ऽमित्रान् पृत्सु तुर्वणे ॥
इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् ।
छर्दिर् यच्छ मघवद्भ्यश् च मह्यं च यावया दिद्युम् एभ्यः ॥
ये गव्यता मनसा शत्रुम् आदभुर् अभिप्रघ्नन्ति धृष्णुया ।
अध स्मा नो मघवन्न् इन्द्र गिर्वणस् तनूपा अन्तमो भव ॥
अध स्मा नो वृधे भवेन्द्र नायम् अवा युधि ।
यद् अन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस् तिग्ममूर्धानः ॥
यत्र शूरासस् तन्वो वितन्वते प्रिया शर्म पितॄणाम् ।
अध स्मा यच्छ तन्वे3 तने च छर्दिर् अचित्तं यावय द्वेषः ॥
यद् इन्द्र सर्गे अर्वतश् चोदयासे महाधने ।
असमने अध्वनि वृजिने पथि श्येनाँ इव श्रवस्यतः ॥
सिन्धूँर् इव प्रवण आशुया यतो यदि क्लोशम् अनु ष्वणि ।
आ ये वयो न वर्वृतत्य् आमिषि गृभीता बाह्वोर् गवि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0