ऋग्वेद · अध्याय 6.045
य आनयत् परावतः सुनीती तुर्वशं यदुम् ।
इन्द्रः स नो युवा सखा ॥
अविप्रे चिद् वयो दधद् अनाशुना चिद् अर्वता ।
इन्द्रो जेता हितं धनम् ॥
महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः ।
नास्य क्षीयन्त ऊतयः ॥
सखायो ब्रह्मवाहसे ऽर्चत प्र च गायत ।
स हि नः प्रमतिर् मही ॥
त्वम् एकस्य वृत्रहन्न् अविता द्वयोर् असि ।
उतेदृशे यथा वयम् ॥
नयसीद् व् अति द्विषः कृणोष्य् उक्थशंसिनः ।
नृभिः सुवीर उच्यसे ॥
ब्रह्माणम् ब्रह्मवाहसं गीर्भिः सखायम् ऋग्मियम् ।
गां न दोहसे हुवे ॥
यस्य विश्वानि हस्तयोर् ऊचुर् वसूनि नि द्विता ।
वीरस्य पृतनाषहः ॥
वि दृळ्हानि चिद् अद्रिवो जनानां शचीपते ।
वृह माया अनानत ॥
तम् उ त्वा सत्य सोमपा इन्द्र वाजानाम् पते ।
अहूमहि श्रवस्यवः ॥
तम् उ त्वा यः पुरासिथ यो वा नूनं हिते धने ।
हव्यः स श्रुधी हवम् ॥
धीभिर् अर्वद्भिर् अर्वतो वाजाँ इन्द्र श्रवाय्यान् ।
त्वया जेष्म हितं धनम् ॥
अभूर् उ वीर गिर्वणो महाँ इन्द्र धने हिते ।
भरे वितन्तसाय्यः ॥
या त ऊतिर् अमित्रहन् मक्षूजवस्तमासति ।
तया नो हिनुही रथम् ॥
स रथेन रथीतमो ऽस्माकेनाभियुग्वना ।
जेषि जिष्णो हितं धनम् ॥
य एक इत् तम् उ ष्टुहि कृष्टीनां विचर्षणिः ।
पतिर् जज्ञे वृषक्रतुः ॥
यो गृणताम् इद् आसिथापिर् ऊती शिवः सखा ।
स त्वं न इन्द्र मृळय ॥
धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः ।
सासहीष्ठा अभि स्पृधः ॥
प्रत्नं रयीणां युजं सखायं कीरिचोदनम् ।
ब्रह्मवाहस्तमं हुवे ॥
स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते ।
गिर्वणस्तमो अध्रिगुः ॥
स नो नियुद्भिर् आ पृण कामं वाजेभिर् अश्विभिः ।
गोमद्भिर् गोपते धृषत् ॥
तद् वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद् गवे न शाकिने ॥
न घा वसुर् नि यमते दानं वाजस्य गोमतः ।
यत् सीम् उप श्रवद् गिरः ॥
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
शचीभिर् अप नो वरत् ॥
इमा उ त्वा शतक्रतो ऽभि प्र णोनुवुर् गिरः ।
इन्द्र वत्सं न मातरः ॥
दूणाशं सख्यं तव गौर् असि वीर गव्यते ।
अश्वो अश्वायते भव ॥
स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे ।
न स्तोतारं निदे करः ॥
इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः ।
वत्सं गावो न धेनवः ॥
पुरूतमम् पुरूणां स्तोतॄणां विवाचि ।
वाजेभिर् वाजयताम् ॥
अस्माकम् इन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः ।
अस्मान् राये महे हिनु ॥
अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्न् अस्थात् ।
उरुः कक्षो न गाङ्ग्यः ॥
यस्य वायोर् इव द्रवद् भद्रा रातिः सहस्रिणी ।
सद्यो दानाय मंहते ॥
तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0