भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.047

6.047.01

स्वादुष् किलायम् मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम् ।
उतो न्व् अ1स्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु ॥

6.047.02

अयं स्वादुर् इह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद ।
पुरूणि यश् च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो3 हन् ॥

6.047.03

अयम् मे पीत उद् इयर्ति वाचम् अयम् मनीषाम् उशतीम् अजीगः ।
अयं षळ् उर्वीर् अमिमीत धीरो न याभ्यो भुवनं कच् चनारे ॥

6.047.04

अयं स यो वरिमाणम् पृथिव्या वर्ष्माणं दिवो अकृणोद् अयं सः ।
अयम् पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्व् अ1न्तरिक्षम् ॥

6.047.05

अयं विदच् चित्रदृशीकम् अर्णः शुक्रसद्मनाम् उषसाम् अनीके ।
अयम् महान् महता स्कम्भनेनोद् द्याम् अस्तभ्नाद् वृषभो मरुत्वान् ॥

6.047.06

धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् ।
माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिम् अस्मासु धेहि ॥

6.047.07

इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।
भवा सुपारो अतिपारयो नो भवा सुनीतिर् उत वामनीतिः ॥

6.047.08

उरुं नो लोकम् अनु नेषि विद्वान् स्वर्वज् ज्योतिर् अभयं स्वस्ति ।
ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥

6.047.09

वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्न् अश्वयोर् आ ।
इषम् आ वक्षीषां वर्षिष्ठाम् मा नस् तारीन् मघवन् रायो अर्यः ॥

6.047.10

इन्द्र मृळ मह्यं जीवातुम् इच्छ चोदय धियम् अयसो न धाराम् ।
यत् किं चाहं त्वायुर् इदं वदामि तज् जुषस्व कृधि मा देववन्तम् ॥

6.047.11

त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवे-हवे सुहवं शूरम् इन्द्रम् ।
ह्वयामि शक्रम् पुरुहूतम् इन्द्रं स्वस्ति नो मघवा धात्व् इन्द्रः ॥

6.047.12

इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

6.047.13

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥

6.047.14

अव त्वे इन्द्र प्रवतो नोर्मिर् गिरो ब्रह्माणि नियुतो धवन्ते ।
उरू न राधः सवना पुरूण्य् अपो गा वज्रिन् युवसे सम् इन्दून् ॥

6.047.15

क ईं स्तवत् कः पृणात् को यजाते यद् उग्रम् इन् मघवा विश्वहावेत् ।
पादाव् इव प्रहरन्न् अन्यम्-अन्यं कृणोति पूर्वम् अपरं शचीभिः ॥

6.047.16

शृण्वे वीर उग्रम्-उग्रं दमायन्न् अन्यम्-अन्यम् अतिनेनीयमानः ।
एधमानद्विळ् उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥

6.047.17

परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति ।
अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस् तर्तरीति ॥

6.047.18

रूपं-रूपम् प्रतिरूपो बभूव तद् अस्य रूपम् प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्य् अस्य हरयः शता दश ॥

6.047.19

युजानो हरिता रथे भूरि त्वष्टेह राजति ।
को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥

6.047.20

अगव्यूति क्षेत्रम् आगन्म देवा उर्वी सती भूमिर् अंहूरणाभूत् ।
बृहस्पते प्र चिकित्सा गविष्टाव् इत्था सते जरित्र इन्द्र पन्थाम् ॥

6.047.21

दिवे-दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप सद्मनो जाः ।
अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥

6.047.22

प्रस्तोक इन् नु राधसस् त इन्द्र दश कोशयीर् दश वाजिनो ऽदात् ।
दिवोदासाद् अतिथिग्वस्य राधः शाम्बरं वसु प्रत्य् अग्रभीष्म ॥

6.047.23

दशाश्वान् दश कोशान् दश वस्त्राधिभोजना ।
दशो हिरण्यपिण्डान् दिवोदासाद् असानिषम् ॥

6.047.24

दश रथान् प्रष्टिमतः शतं गा अथर्वभ्यः ।
अश्वथः पायवे ऽदात् ॥

6.047.25

महि राधो विश्वजन्यं दधानान् भरद्वाजान् सार्ञ्जयो अभ्य् अयष्ट ॥

6.047.26

वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥

6.047.27

दिवस् पृथिव्याः पर्य् ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतं सहः ।
अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥

6.047.28

इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

6.047.29

उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो अप सेध शत्रून् ॥

6.047.30

आ क्रन्दय बलम् ओजो न आ धा निः ष्टनिहि दुरिता बाधमानः ।
अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर् असि वीळयस्व ॥

6.047.31

आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।
सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc