भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.032

6.032.01

अपूर्व्या पुरुतमान्य् अस्मै महे वीराय तवसे तुराय ।
विरप्शिने वज्रिणे शंतमानि वचांस्य् आसा स्थविराय तक्षम् ॥

6.032.02

स मातरा सूर्येणा कवीनाम् अवासयद् रुजद् अद्रिं गृणानः ।
स्वाधीभिर् ऋक्वभिर् वावशान उद् उस्रियाणाम् असृजन् निदानम् ॥

6.032.03

स वह्निभिर् ऋक्वभिर् गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय ।
पुरः पुरोहा सखिभिः सखीयन् दृळ्हा रुरोज कविभिः कविः सन् ॥

6.032.04

स नीव्याभिर् जरितारम् अच्छा महो वाजेभिर् महद्भिश् च शुष्मैः ।
पुरुवीराभिर् वृषभ क्षितीनाम् आ गिर्वणः सुविताय प्र याहि ॥

6.032.05

स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस् तुराषाट् ।
इत्था सृजाना अनपावृद् अर्थं दिवे-दिवे विविषुर् अप्रमृष्यम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc