ऋग्वेद · अध्याय 6.033
य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन् स्वभिष्टिर् दास्वान् ।
सौवश्व्यं यो वनवत् स्वश्वो वृत्रा समत्सु सासहद् अमित्रान् ॥
त्वां ही3न्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ ।
त्वं विप्रेभिर् वि पणीँर् अशायस् त्वोत इत् सनिता वाजम् अर्वा ॥
त्वं ताँ इन्द्रोभयाँ अमित्रान् दासा वृत्राण्य् आर्या च शूर ।
वधीर् वनेव सुधितेभिर् अत्कैर् आ पृत्सु दर्षि नृणां नृतम ॥
स त्वं न इन्द्राकवाभिर् ऊती सखा विश्वायुर् अविता वृधे भूः ।
स्वर्षाता यद् ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥
नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ ।
इत्था गृणन्तो महिनस्य शर्मन् दिवि ष्याम पार्ये गोषतमाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0