भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.031

6.031.01

अभूर् एको रयिपते रयीणाम् आ हस्तयोर् अधिथा इन्द्र कृष्टीः ।
वि तोके अप्सु तनये च सूरे ऽवोचन्त चर्षणयो विवाचः ॥

6.031.02

त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच् च्यावयन्ते रजांसि ।
द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हम् भयते अज्मन्न् आ ते ॥

6.031.03

त्वं कुत्सेनाभि शुष्णम् इन्द्राशुषं युध्य कुयवं गविष्टौ ।
दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे रपांसि ॥

6.031.04

त्वं शतान्य् अव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः ।
अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥

6.031.05

स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण भीमम् ।
याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc