भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.029

6.029.01

इन्द्रं वो नरः सख्याय सेपुर् महो यन्तः सुमतये चकानाः ।
महो हि दाता वज्रहस्तो अस्ति महाम् उ रण्वम् अवसे यजध्वम् ॥

6.029.02

आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये रथेष्ठाः ।
आ रश्मयो गभस्त्योः स्थूरयोर् आध्वन्न् अश्वासो वृषणो युजानाः ॥

6.029.03

श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा दक्षिणावान् ।
वसानो अत्कं सुरभिं दृशे कं स्व1र् ण नृतव् इषिरो बभूथ ॥

6.029.04

स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्ति धानाः ।
इन्द्रं नरः स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥

6.029.05

न ते अन्तः शवसो धाय्य् अस्य वि तु बाबधे रोदसी महित्वा ।
आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥

6.029.06

एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा ।
एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc