भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.028

6.028.01

आ गावो अग्मन्न् उत भद्रम् अक्रन् सीदन्तु गोष्ठे रणयन्त्व् अस्मे ।
प्रजावतीः पुरुरूपा इह स्युर् इन्द्राय पूर्वीर् उषसो दुहानाः ॥

6.028.02

इन्द्रो यज्वने पृणते च शिक्षत्य् उपेद् ददाति न स्वम् मुषायति ।
भूयो-भूयो रयिम् इद् अस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥

6.028.03

न ता नशन्ति न दभाति तस्करो नासाम् आमित्रो व्यथिर् आ दधर्षति ।
देवाँश् च याभिर् यजते ददाति च ज्योग् इत् ताभिः सचते गोपतिः सह ॥

6.028.04

न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रम् उप यन्ति ता अभि ।
उरुगायम् अभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥

6.028.05

गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः ।
इमा या गावः स जनास इन्द्र इच्छामीद् धृदा मनसा चिद् इन्द्रम् ॥

6.028.06

यूयं गावो मेदयथा कृशं चिद् अश्रीरं चित् कृणुथा सुप्रतीकम् ।
भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु ॥

6.028.07

प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
मा वः स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥

6.028.08

उपेदम् उपपर्चनम् आसु गोषूप पृच्यताम् ।
उप ऋषभस्य रेतस्य् उपेन्द्र तव वीर्ये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc