भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.030

6.030.01

भूय इद् वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि ।
प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धम् इद् अस्य प्रति रोदसी उभे ॥

6.030.02

अधा मन्ये बृहद् असुर्यम् अस्य यानि दाधार नकिर् आ मिनाति ।
दिवे-दिवे सूर्यो दर्शतो भूद् वि सद्मान्य् उर्विया सुक्रतुर् धात् ॥

6.030.03

अद्या चिन् नू चित् तद् अपो नदीनां यद् आभ्यो अरदो गातुम् इन्द्र ।
नि पर्वता अद्मसदो न सेदुस् त्वया दृळ्हानि सुक्रतो रजांसि ॥

6.030.04

सत्यम् इत् तन् न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् ।
अहन्न् अहिम् परिशयानम् अर्णो ऽवासृजो अपो अच्छा समुद्रम् ॥

6.030.05

त्वम् अपो वि दुरो विषूचीर् इन्द्र दृळ्हम् अरुजः पर्वतस्य ।
राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम् उषासम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc