ऋग्वेद · अध्याय 6.027
किम् अस्य मदे किम् व् अस्य पीताव् इन्द्रः किम् अस्य सख्ये चकार ।
रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किम् उ नूतनासः ॥
सद् अस्य मदे सद् व् अस्य पीताव् इन्द्रः सद् अस्य सख्ये चकार ।
रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् उ नूतनासः ॥
नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य विद्म ।
न राधसो-राधसो नूतनस्येन्द्र नकिर् ददृश इन्द्रियं ते ॥
एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य शेषः ।
वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो ददार ॥
वधीद् इन्द्रो वरशिखस्य शेषो ऽभ्यावर्तिने चायमानाय शिक्षन् ।
वृचीवतो यद् धरियूपीयायां हन् पूर्वे अर्धे भियसापरो दर्त् ॥
त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्याम् पुरुहूत श्रवस्या ।
वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्य् आयन् ॥
यस्य गावाव् अरुषा सूयवस्यू अन्तर् ऊ षु चरतो रेरिहाणा ।
स सृञ्जयाय तुर्वशम् परादाद् वृचीवतो दैववाताय शिक्षन् ॥
द्वयाँ अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् ।
अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0