भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.026

6.026.01

श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः ।
सं यद् विशो ऽयन्त शूरसाता उग्रं नो ऽवः पार्ये अहन् दाः ॥

6.026.02

त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ ।
त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥

6.026.03

त्वं कविं चोदयो ऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् ।
त्वं शिरो अमर्मणः पराहन्न् अतिथिग्वाय शंस्यं करिष्यन् ॥

6.026.04

त्वं रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तं वृषभं दशद्युम् ।
त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तम् इन्द्र तूतोः ॥

6.026.05

त्वं तद् उक्थम् इन्द्र बर्हणा कः प्र यच् छता सहस्रा शूर दर्षि ।
अव गिरेर् दासं शम्बरं हन् प्रावो दिवोदासं चित्राभिर् ऊती ॥

6.026.06

त्वं श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम् इन्द्र सिष्वप् ।
त्वं रजिम् पिठीनसे दशस्यन् षष्टिं सहस्रा शच्या सचाहन् ॥

6.026.07

अहं चन तत् सूरिभिर् आनश्यां तव ज्याय इन्द्र सुम्नम् ओजः ।
त्वया यत् स्तवन्ते सधवीर वीरास् त्रिवरूथेन नहुषा शविष्ठ ॥

6.026.08

वयं ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः ।
प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc