भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.019

6.019.01

महाँ इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।
अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥

6.019.02

इन्द्रम् एव धिषणा सातये धाद् बृहन्तम् ऋष्वम् अजरं युवानम् ।
अषाळ्हेन शवसा शूशुवांसं सद्यश् चिद् यो वावृधे असामि ॥

6.019.03

पृथू करस्ना बहुला गभस्ती अस्मद्र्य1क् सम् मिमीहि श्रवांसि ।
यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्य् आ ववृत्स्वाजौ ॥

6.019.04

तं व इन्द्रं चतिनम् अस्य शाकैर् इह नूनं वाजयन्तो हुवेम ।
यथा चित् पूर्वे जरितार आसुर् अनेद्या अनवद्या अरिष्टाः ॥

6.019.05

धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः ।
सं जग्मिरे पथ्या3 रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः ॥

6.019.06

शविष्ठं न आ भर शूर शव ओजिष्ठम् ओजो अभिभूत उग्रम् ।
विश्वा द्युम्ना वृष्ण्या मानुषाणाम् अस्मभ्यं दा हरिवो मादयध्यै ॥

6.019.07

यस् ते मदः पृतनाषाळ् अमृध्र इन्द्र तं न आ भर शूशुवांसम् ।
येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस् त्वोताः ॥

6.019.08

आ नो भर वृषणं शुष्मम् इन्द्र धनस्पृतं शूशुवांसं सुदक्षम् ।
येन वंसाम पृतनासु शत्रून् तवोतिभिर् उत जामीँर् अजामीन् ॥

6.019.09

आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् ।
आ विश्वतो अभि सम् एत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ॥

6.019.10

नृवत् त इन्द्र नृतमाभिर् ऊती वंसीमहि वामं श्रोमतेभिः ।
ईक्षे हि वस्व उभयस्य राजन् धा रत्नम् महि स्थूरम् बृहन्तम् ॥

6.019.11

मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् ।
विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥

6.019.12

जनं वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया येष्व् अस्मि ।
अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्व् अप्सु ॥

6.019.13

वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत् स्याम ।
घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc