ऋग्वेद · अध्याय 6.018
तम् उ ष्टुहि यो अभिभूत्योजा वन्वन्न् अवातः पुरुहूत इन्द्रः ।
अषाळ्हम् उग्रं सहमानम् आभिर् गीर्भिर् वर्ध वृषभं चर्षणीनाम् ॥
स युध्मः सत्वा खजकृत् समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी ।
बृहद्रेणुश् च्यवनो मानुषीणाम् एकः कृष्टीनाम् अभवत् सहावा ॥
त्वं ह नु त्यद् अदमायो दस्यूँर् एकः कृष्टीर् अवनोर् आर्याय ।
अस्ति स्विन् नु वीर्य1ं तत् त इन्द्र न स्विद् अस्ति तद् ऋतुथा वि वोचः ॥
सद् इद् धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस् तुरस्य ।
उग्रम् उग्रस्य तवसस् तवीयो ऽरध्रस्य रध्रतुरो बभूव ॥
तन् नः प्रत्नं सख्यम् अस्तु युष्मे इत्था वदद्भिर् वलम् अङ्गिरोभिः ।
हन्न् अच्युतच्युद् दस्मेषयन्तम् ऋणोः पुरो वि दुरो अस्य विश्वाः ॥
स हि धीभिर् हव्यो अस्त्य् उग्र ईशानकृन् महति वृत्रतूर्ये ।
स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत् समत्सु ॥
स मज्मना जनिम मानुषाणाम् अमर्त्येन नाम्नाति प्र सर्स्रे ।
स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥
स यो न मुहे न मिथू जनो भूत् सुमन्तुनामा चुमुरिं धुनिं च ।
वृणक् पिप्रुं शम्बरं शुष्णम् इन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥
उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथम् इन्द्र तिष्ठ ।
धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥
अग्निर् न शुष्कं वनम् इन्द्र हेती रक्षो नि धक्ष्य् अशनिर् न भीमा ।
गम्भीरय ऋष्वया यो रुरोजाध्वानयद् दुरिता दम्भयच् च ॥
आ सहस्रम् पथिभिर् इन्द्र राया तुविद्युम्न तुविवाजेभिर् अर्वाक् ।
याहि सूनो सहसो यस्य नू चिद् अदेव ईशे पुरुहूत योतोः ॥
प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर् दिवो ररप्शे महिमा पृथिव्याः ।
नास्य शत्रुर् न प्रतिमानम् अस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥
प्र तत् ते अद्या करणं कृतम् भूत् कुत्सं यद् आयुम् अतिथिग्वम् अस्मै ।
पुरू सहस्रा नि शिशा अभि क्षाम् उत् तूर्वयाणं धृषता निनेथ ॥
अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनाम् ।
करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥
अनु द्यावापृथिवी तत् त ओजो ऽमर्त्या जिहत इन्द्र देवाः ।
कृष्वा कृत्नो अकृतं यत् ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0