भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.020

6.020.01

द्यौर् न य इन्द्राभि भूमार्यस् तस्थौ रयिः शवसा पृत्सु जनान् ।
तं नः सहस्रभरम् उर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥

6.020.02

दिवो न तुभ्यम् अन्व् इन्द्र सत्रासुर्यं देवेभिर् धायि विश्वम् ।
अहिं यद् वृत्रम् अपो वव्रिवांसं हन्न् ऋजीषिन् विष्णुना सचानः ॥

6.020.03

तूर्वन्न् ओजीयान् तवसस् तवीयान् कृतब्रह्मेन्द्रो वृद्धमहाः ।
राजाभवन् मधुनः सोम्यस्य विश्वासां यत् पुरां दर्त्नुम् आवत् ॥

6.020.04

शतैर् अपद्रन् पणय इन्द्रात्र दशोणये कवये ऽर्कसातौ ।
वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत् किं चन प्र ॥

6.020.05

महो द्रुहो अप विश्वायु धायि वज्रस्य यत् पतने पादि शुष्णः ।
उरु ष सरथं सारथये कर् इन्द्रः कुत्साय सूर्यस्य सातौ ॥

6.020.06

प्र श्येनो न मदिरम् अंशुम् अस्मै शिरो दासस्य नमुचेर् मथायन् ।
प्रावन् नमीं साप्यं ससन्तम् पृणग् राया सम् इषा सं स्वस्ति ॥

6.020.07

वि पिप्रोर् अहिमायस्य दृळ्हाः पुरो वज्रिञ् छवसा न दर्दः ।
सुदामन् तद् रेक्णो अप्रमृष्यम् ऋजिश्वने दात्रं दाशुषे दाः ॥

6.020.08

स वेतसुं दशमायं दशोणिं तूतुजिम् इन्द्रः स्वभिष्टिसुम्नः ।
आ तुग्रं शश्वद् इभं द्योतनाय मातुर् न सीम् उप सृजा इयध्यै ॥

6.020.09

स ईं स्पृधो वनते अप्रतीतो बिभ्रद् वज्रं वृत्रहणं गभस्तौ ।
तिष्ठद् धरी अध्य् अस्तेव गर्ते वचोयुजा वहत इन्द्रम् ऋष्वम् ॥

6.020.10

सनेम ते ऽवसा नव्य इन्द्र प्र पूरवः स्तवन्त एना यज्ञैः ।
सप्त यत् पुरः शर्म शारदीर् दर्द् धन् दासीः पुरुकुत्साय शिक्षन् ॥

6.020.11

त्वं वृध इन्द्र पूर्व्यो भूर् वरिवस्यन्न् उशने काव्याय ।
परा नववास्त्वम् अनुदेयम् महे पित्रे ददाथ स्वं नपातम् ॥

6.020.12

त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः ।
प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥

6.020.13

तव ह त्यद् इन्द्र विश्वम् आजौ सस्तो धुनीचुमुरी या ह सिष्वप् ।
दीदयद् इत् तुभ्यं सोमेभिः सुन्वन् दभीतिर् इध्मभृतिः पक्थ्य् अ1र्कैः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc