भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.017

6.017.01

पिबा सोमम् अभि यम् उग्र तर्द ऊर्वं गव्यम् महि गृणान इन्द्र ।
वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रम् अमित्रिया शवोभिः ॥

6.017.02

स ईम् पाहि य ऋजीषी तरुत्रो यः शिप्रवान् वृषभो यो मतीनाम् ।
यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजान् ॥

6.017.03

एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।
आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूँर् अभि गा इन्द्र तृन्धि ॥

6.017.04

ते त्वा मदा बृहद् इन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् ।
महाम् अनूनं तवसं विभूतिम् मत्सरासो जर्हृषन्त प्रसाहम् ॥

6.017.05

येभिः सूर्यम् उषसम् मन्दसानो ऽवासयो ऽप दृळ्हानि दर्द्रत् ।
महाम् अद्रिम् परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस् परि स्वात् ॥

6.017.06

तव क्रत्वा तव तद् दंसनाभिर् आमासु पक्वं शच्या नि दीधः ।
और्णोर् दुर उस्रियाभ्यो वि दृळ्होद् ऊर्वाद् गा असृजो अङ्गिरस्वान् ॥

6.017.07

पप्राथ क्षाम् महि दंसो व्य् उ1र्वीम् उप द्याम् ऋष्वो बृहद् इन्द्र स्तभायः ।
अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥

6.017.08

अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय ।
अदेवो यद् अभ्य् औहिष्ट देवान् स्वर्षाता वृणत इन्द्रम् अत्र ॥

6.017.09

अध द्यौश् चित् ते अप सा नु वज्राद् द्वितानमद् भियसा स्वस्य मन्योः ।
अहिं यद् इन्द्रो अभ्य् ओहसानं नि चिद् विश्वायुः शयथे जघान ॥

6.017.10

अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच् छताश्रिम् ।
निकामम् अरमणसं येन नवन्तम् अहिं सम् पिणग् ऋजीषिन् ॥

6.017.11

वर्धान् यं विश्वे मरुतः सजोषाः पचच् छतम् महिषाँ इन्द्र तुभ्यम् ।
पूषा विष्णुस् त्रीणि सरांसि धावन् वृत्रहणम् मदिरम् अंशुम् अस्मै ॥

6.017.12

आ क्षोदो महि वृतं नदीनाम् परिष्ठितम् असृज ऊर्मिम् अपाम् ।
तासाम् अनु प्रवत इन्द्र पन्थाम् प्रार्दयो नीचीर् अपसः समुद्रम् ॥

6.017.13

एवा ता विश्वा चकृवांसम् इन्द्रम् महाम् उग्रम् अजुर्यं सहोदाम् ।
सुवीरं त्वा स्वायुधं सुवज्रम् आ ब्रह्म नव्यम् अवसे ववृत्यात् ॥

6.017.14

स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् ।
भरद्वाजे नृवत इन्द्र सूरीन् दिवि च स्मैधि पार्ये न इन्द्र ॥

6.017.15

अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc