ऋग्वेद · अध्याय 6.016
त्वम् अग्ने यज्ञानां होता विश्वेषां हितः ।
देवेभिर् मानुषे जने ॥
स नो मन्द्राभिर् अध्वरे जिह्वाभिर् यजा महः ।
आ देवान् वक्षि यक्षि च ॥
वेत्था हि वेधो अध्वनः पथश् च देवाञ्जसा ।
अग्ने यज्ञेषु सुक्रतो ॥
त्वाम् ईळे अध द्विता भरतो वाजिभिः शुनम् ।
ईजे यज्ञेषु यज्ञियम् ॥
त्वम् इमा वार्या पुरु दिवोदासाय सुन्वते ।
भरद्वाजाय दाशुषे ॥
त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् ।
शृण्वन् विप्रस्य सुष्टुतिम् ॥
त्वाम् अग्ने स्वाध्यो3 मर्तासो देववीतये ।
यज्ञेषु देवम् ईळते ॥
तव प्र यक्षि संदृशम् उत क्रतुं सुदानवः ।
विश्वे जुषन्त कामिनः ॥
त्वं होता मनुर्हितो वह्निर् आसा विदुष्टरः ।
अग्ने यक्षि दिवो विशः ॥
अग्न आ याहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥
तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि ।
बृहच् छोचा यविष्ठ्य ॥
स नः पृथु श्रवाय्यम् अच्छा देव विवाससि ।
बृहद् अग्ने सुवीर्यम् ॥
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः ।
वृत्रहणम् पुरंदरम् ॥
तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् ।
धनंजयं रणे-रणे ॥
एह्य् ऊ षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः ।
एभिर् वर्धास इन्दुभिः ॥
यत्र क्व च ते मनो दक्षं दधस उत्तरम् ।
तत्रा सदः कृणवसे ॥
नहि ते पूर्तम् अक्षिपद् भुवन् नेमानां वसो ।
अथा दुवो वनवसे ॥
आग्निर् अगामि भारतो वृत्रहा पुरुचेतनः ।
दिवोदासस्य सत्पतिः ॥
स हि विश्वाति पार्थिवा रयिं दाशन् महित्वना ।
वन्वन्न् अवातो अस्तृतः ॥
स प्रत्नवन् नवीयसाग्ने द्युम्नेन संयता ।
बृहत् ततन्थ भानुना ॥
प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया ।
अर्च गाय च वेधसे ॥
स हि यो मानुषा युगा सीदद् धोता कविक्रतुः ।
दूतश् च हव्यवाहनः ॥
ता राजाना शुचिव्रतादित्यान् मारुतं गणम् ।
वसो यक्षीह रोदसी ॥
वस्वी ते अग्ने संदृष्टिर् इषयते मर्त्याय ।
ऊर्जो नपाद् अमृतस्य ॥
क्रत्वा दा अस्तु श्रेष्ठो ऽद्य त्वा वन्वन् सुरेक्णाः ।
मर्त आनाश सुवृक्तिम् ॥
ते ते अग्ने त्वोता इषयन्तो विश्वम् आयुः ।
तरन्तो अर्यो अरातीर् वन्वन्तो अर्यो अरातीः ॥
अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अ1त्रिणम् ।
अग्निर् नो वनते रयिम् ॥
सुवीरं रयिम् आ भर जातवेदो विचर्षणे ।
जहि रक्षांसि सुक्रतो ॥
त्वं नः पाह्य् अंहसो जातवेदो अघायतः ।
रक्षा णो ब्रह्मणस् कवे ॥
यो नो अग्ने दुरेव आ मर्तो वधाय दाशति ।
तस्मान् नः पाह्य् अंहसः ॥
त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् ।
मर्तो यो नो जिघांसति ॥
भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य ।
अग्ने वरेण्यं वसु ॥
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया ।
समिद्धः शुक्र आहुतः ॥
गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे ।
सीदन्न् ऋतस्य योनिम् आ ॥
ब्रह्म प्रजावद् आ भर जातवेदो विचर्षणे ।
अग्ने यद् दीदयद् दिवि ॥
उप त्वा रण्वसंदृशम् प्रयस्वन्तः सहस्कृत ।
अग्ने ससृज्महे गिरः ॥
उप च्छायाम् इव घृणेर् अगन्म शर्म ते वयम् ।
अग्ने हिरण्यसंदृशः ॥
य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः ।
अग्ने पुरो रुरोजिथ ॥
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।
विशाम् अग्निं स्वध्वरम् ॥
प्र देवं देववीतये भरता वसुवित्तमम् ।
आ स्वे योनौ नि षीदतु ॥
आ जातं जातवेदसि प्रियं शिशीतातिथिम् ।
स्योन आ गृहपतिम् ॥
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
अरं वहन्ति मन्यवे ॥
अच्छा नो याह्य् आ वहाभि प्रयांसि वीतये ।
आ देवान् सोमपीतये ॥
उद् अग्ने भारत द्युमद् अजस्रेण दविद्युतत् ।
शोचा वि भाह्य् अजर ॥
वीती यो देवम् मर्तो दुवस्येद् अग्निम् ईळीताध्वरे हविष्मान् ।
होतारं सत्ययजं रोदस्योर् उत्तानहस्तो नमसा विवासेत् ॥
आ ते अग्न ऋचा हविर् हृदा तष्टम् भरामसि ।
ते ते भवन्तूक्षण ऋषभासो वशा उत ॥
अग्निं देवासो अग्रियम् इन्धते वृत्रहन्तमम् ।
येना वसून्य् आभृता तृळ्हा रक्षांसि वाजिना ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0