ऋग्वेद · अध्याय 6.015
इमम् ऊ षु वो अतिथिम् उषर्बुधं विश्वासां विशाम् पतिम् ऋञ्जसे गिरा ।
वेतीद् दिवो जनुषा कच् चिद् आ शुचिर् ज्योक् चिद् अत्ति गर्भो यद् अच्युतम् ॥
मित्रं न यं सुधितम् भृगवो दधुर् वनस्पताव् ईड्यम् ऊर्ध्वशोचिषम् ।
स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर् महयसे दिवे-दिवे ॥
स त्वं दक्षस्यावृको वृधो भूर् अर्यः परस्यान्तरस्य तरुषः ।
रायः सूनो सहसो मर्त्येष्व् आ छर्दिर् यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥
द्युतानं वो अतिथिं स्वर्णरम् अग्निं होतारम् मनुषः स्वध्वरम् ।
विप्रं न द्युक्षवचसं सुवृक्तिभिर् हव्यवाहम् अरतिं देवम् ऋञ्जसे ॥
पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न भानुना ।
तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥
अग्निम्-अग्निं वः समिधा दुवस्यत प्रियम्-प्रियं वो अतिथिं गृणीषणि ।
उप वो गीर्भिर् अमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥
समिद्धम् अग्निं समिधा गिरा गृणे शुचिम् पावकम् पुरो अध्वरे ध्रुवम् ।
विप्रं होतारम् पुरुवारम् अद्रुहं कविं सुम्नैर् ईमहे जातवेदसम् ॥
त्वां दूतम् अग्ने अमृतं युगे-युगे हव्यवाहं दधिरे पायुम् ईड्यम् ।
देवासश् च मर्तासश् च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥
विभूषन्न् अग्न उभयाँ अनु व्रता दूतो देवानां रजसी सम् ईयसे ।
यत् ते धीतिं सुमतिम् आवृणीमहे ऽध स्मा नस् त्रिवरूथः शिवो भव ॥
तं सुप्रतीकं सुदृशं स्वञ्चम् अविद्वांसो विदुष्टरं सपेम ।
स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥
तम् अग्ने पास्य् उत तम् पिपर्षि यस् त आनट् कवये शूर धीतिम् ।
यज्ञस्य वा निशितिं वोदितिं वा तम् इत् पृणक्षि शवसोत राया ॥
त्वम् अग्ने वनुष्यतो नि पाहि त्वम् उ नः सहसावन्न् अवद्यात् ।
सं त्वा ध्वस्मन्वद् अभ्य् एतु पाथः सं रयिः स्पृहयाय्यः सहस्री ॥
अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।
देवानाम् उत यो मर्त्यानां यजिष्ठः स प्र यजताम् ऋतावा ॥
अग्ने यद् अद्य विशो अध्वरस्य होतः पावकशोचे वेष् ट्वं हि यज्वा ।
ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥
अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै ।
अवा नो मघवन् वाजसाताव् अग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥
अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् ।
कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥
इमम् उ त्यम् अथर्ववद् अग्निम् मन्थन्ति वेधसः ।
यम् अङ्कूयन्तम् आनयन्न् अमूरं श्याव्याभ्यः ॥
जनिष्वा देववीतये सर्वताता स्वस्तये ।
आ देवान् वक्ष्य् अमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥
वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् ।
अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा सं शिशाधि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0