ऋग्वेद · अध्याय 6.014
अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।
भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ॥
अग्निर् इद् धि प्रचेता अग्निर् वेधस्तम ऋषिः ।
अग्निं होतारम् ईळते यज्ञेषु मनुषो विशः ॥
नाना ह्य् अ1ग्ने ऽवसे स्पर्धन्ते रायो अर्यः ।
तूर्वन्तो दस्युम् आयवो व्रतैः सीक्षन्तो अव्रतम् ॥
अग्निर् अप्साम् ऋतीषहं वीरं ददाति सत्पतिम् ।
यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥
अग्निर् हि विद्मना निदो देवो मर्तम् उरुष्यति ।
सहावा यस्यावृतो रयिर् वाजेष्व् अवृतः ॥
अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः ।
वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0