ऋग्वेद · अध्याय 6.013
त्वद् विश्वा सुभग सौभगान्य् अग्ने वि यन्ति वनिनो न वयाः ।
श्रुष्टी रयिर् वाजो वृत्रतूर्ये दिवो वृष्टिर् ईड्यो रीतिर् अपाम् ॥
त्वम् भगो न आ हि रत्नम् इषे परिज्मेव क्षयसि दस्मवर्चाः ।
अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥
स सत्पतिः शवसा हन्ति वृत्रम् अग्ने विप्रो वि पणेर् भर्ति वाजम् ।
यं त्वम् प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥
यस् ते सूनो सहसो गीर्भिर् उक्थैर् यज्ञैर् मर्तो निशितिं वेद्यानट् ।
विश्वं स देव प्रति वारम् अग्ने धत्ते धान्य1म् पत्यते वसव्यैः ॥
ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः ।
कृणोषि यच् छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥
वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः ।
विश्वाभिर् गीर्भिर् अभि पूर्तिम् अश्याम् मदेम शतहिमाः सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0