भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.012

6.012.01

मध्ये होता दुरोणे बर्हिषो राळ् अग्निस् तोदस्य रोदसी यजध्यै ।
अयं स सूनुः सहस ऋतावा दूरात् सूर्यो न शोचिषा ततान ॥

6.012.02

आ यस्मिन् त्वे स्व् अपाके यजत्र यक्षद् राजन् सर्वतातेव नु द्यौः ।
त्रिषधस्थस् ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥

6.012.03

तेजिष्ठा यस्यारतिर् वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् ।
अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु ॥

6.012.04

सास्माकेभिर् एतरी न शूषैर् अग्निः ष्टवे दम आ जातवेदाः ।
द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥

6.012.05

अध स्मास्य पनयन्ति भासो वृथा यत् तक्षद् अनुयाति पृथ्वीम् ।
सद्यो यः स्यन्द्रो विषितो धवीयान् ऋणो न तायुर् अति धन्वा राट् ॥

6.012.06

स त्वं नो अर्वन् निदाया विश्वेभिर् अग्ने अग्निभिर् इधानः ।
वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc