भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.009

6.009.01

अहश् च कृष्णम् अहर् अर्जुनं च वि वर्तेते रजसी वेद्याभिः ।
वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमांसि ॥

6.009.02

नाहं तन्तुं न वि जानाम्य् ओतुं न यं वयन्ति समरे ऽतमानाः ।
कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्य् अवरेण पित्रा ॥

6.009.03

स इत् तन्तुं स वि जानात्य् ओतुं स वक्त्वान्य् ऋतुथा वदाति ।
य ईं चिकेतद् अमृतस्य गोपा अवश् चरन् परो अन्येन पश्यन् ॥

6.009.04

अयं होता प्रथमः पश्यतेमम् इदं ज्योतिर् अमृतम् मर्त्येषु ।
अयं स जज्ञे ध्रुव आ निषत्तो ऽमर्त्यस् तन्वा3 वर्धमानः ॥

6.009.05

ध्रुवं ज्योतिर् निहितं दृशये कम् मनो जविष्ठम् पतयत्स्व् अन्तः ।
विश्वे देवाः समनसः सकेता एकं क्रतुम् अभि वि यन्ति साधु ॥

6.009.06

वि मे कर्णा पतयतो वि चक्षुर् वी3दं ज्योतिर् हृदय आहितं यत् ।
वि मे मनश् चरति दूरआधीः किं स्विद् वक्ष्यामि किम् उ नू मनिष्ये ॥

6.009.07

विश्वे देवा अनमस्यन् भियानास् त्वाम् अग्ने तमसि तस्थिवांसम् ।
वैश्वानरो ऽवतूतये नो ऽमर्त्यो ऽवतूतये नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc