भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 6.010

6.010.01

पुरो वो मन्द्रं दिव्यं सुवृक्तिम् प्रयति यज्ञे अग्निम् अध्वरे दधिध्वम् ।
पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥

6.010.02

तम् उ द्युमः पुर्वणीक होतर् अग्ने अग्निभिर् मनुष इधानः ।
स्तोमं यम् अस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥

6.010.03

पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः ।
चित्राभिस् तम् ऊतिभिश् चित्रशोचिर् व्रजस्य साता गोमतो दधाति ॥

6.010.04

आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा ।
अध बहु चित् तम ऊर्म्यायास् तिरः शोचिषा ददृशे पावकः ॥

6.010.05

नू नश् चित्रम् पुरुवाजाभिर् ऊती अग्ने रयिम् मघवद्भ्यश् च धेहि ।
ये राधसा श्रवसा चात्य् अन्यान् सुवीर्येभिश् चाभि सन्ति जनान् ॥

6.010.06

इमं यज्ञं चनो धा अग्न उशन् यं त आसानो जुहुते हविष्मान् ।
भरद्वाजेषु दधिषे सुवृक्तिम् अवीर् वाजस्य गध्यस्य सातौ ॥

6.010.07

वि द्वेषांसीनुहि वर्धयेळाम् मदेम शतहिमाः सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc