ऋग्वेद · अध्याय 6.008
पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः ।
वैश्वानराय मतिर् नव्यसी शुचिः सोम इव पवते चारुर् अग्नये ॥
स जायमानः परमे व्योमनि व्रतान्य् अग्निर् व्रतपा अरक्षत ।
व्य् अ1न्तरिक्षम् अमिमीत सुक्रतुर् वैश्वानरो महिना नाकम् अस्पृशत् ॥
व्य् अस्तभ्नाद् रोदसी मित्रो अद्भुतो ऽन्तर्वावद् अकृणोज् ज्योतिषा तमः ।
वि चर्मणीव धिषणे अवर्तयद् वैश्वानरो विश्वम् अधत्त वृष्ण्यम् ॥
अपाम् उपस्थे महिषा अगृभ्णत विशो राजानम् उप तस्थुर् ऋग्मियम् ।
आ दूतो अग्निम् अभरद् विवस्वतो वैश्वानरम् मातरिश्वा परावतः ॥
युगे-युगे विदथ्यं गृणद्भ्यो ऽग्ने रयिं यशसं धेहि नव्यसीम् ।
पव्येव राजन्न् अघशंसम् अजर नीचा नि वृश्च वनिनं न तेजसा ॥
अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरं सुवीर्यम् ।
वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजम् अग्ने तवोतिभिः ॥
अदब्धेभिस् तव गोपाभिर् इष्टे ऽस्माकम् पाहि त्रिषधस्थ सूरीन् ।
रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारीः स्तवानः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0