ऋग्वेद · अध्याय 5.082
तत् सवितुर् वृणीमहे वयं देवस्य भोजनम् ।
श्रेष्ठं सर्वधातमं तुरम् भगस्य धीमहि ॥
अस्य हि स्वयशस्तरं सवितुः कच् चन प्रियम् ।
न मिनन्ति स्वराज्यम् ॥
स हि रत्नानि दाशुषे सुवाति सविता भगः ।
तम् भागं चित्रम् ईमहे ॥
अद्या नो देव सवितः प्रजावत् सावीः सौभगम् ।
परा दुष्ष्वप्न्यं सुव ॥
विश्वानि देव सवितर् दुरितानि परा सुव ।
यद् भद्रं तन् न आ सुव ॥
अनागसो अदितये देवस्य सवितुः सवे ।
विश्वा वामानि धीमहि ॥
आ विश्वदेवं सत्पतिं सूक्तैर् अद्या वृणीमहे ।
सत्यसवं सवितारम् ॥
य इमे उभे अहनी पुर एत्य् अप्रयुच्छन् ।
स्वाधीर् देवः सविता ॥
य इमा विश्वा जातान्य् आश्रावयति श्लोकेन ।
प्र च सुवाति सविता ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0