ऋग्वेद · अध्याय 5.083
अच्छा वद तवसं गीर्भिर् आभिः स्तुहि पर्जन्यं नमसा विवास ।
कनिक्रदद् वृषभो जीरदानू रेतो दधात्य् ओषधीषु गर्भम् ॥
वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय भुवनम् महावधात् ।
उतानागा ईषते वृष्ण्यावतो यत् पर्जन्यः स्तनयन् हन्ति दुष्कृतः ॥
रथीव कशयाश्वाँ अभिक्षिपन्न् आविर् दूतान् कृणुते वर्ष्या3ँ अह ।
दूरात् सिंहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते वर्ष्य1ं नभः ॥
प्र वाता वान्ति पतयन्ति विद्युत उद् ओषधीर् जिहते पिन्वते स्वः ।
इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥
यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज् जर्भुरीति ।
यस्य व्रत ओषधीर् विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥
दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः ।
अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ॥
अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन ।
दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥
महान्तं कोशम् उद् अचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् ।
घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व् अघ्न्याभ्यः ॥
यत् पर्जन्य कनिक्रदत् स्तनयन् हंसि दुष्कृतः ।
प्रतीदं विश्वम् मोदते यत् किं च पृथिव्याम् अधि ॥
अवर्षीर् वर्षम् उद् उ षू गृभायाकर् धन्वान्य् अत्येतवा उ ।
अजीजन ओषधीर् भोजनाय कम् उत प्रजाभ्यो ऽविदो मनीषाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0