ऋग्वेद · अध्याय 5.081
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।
वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥
यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् ओजसा ।
यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥
उत यासि सवितस् त्रीणि रोचनोत सूर्यस्य रश्मिभिः सम् उच्यसि ।
उत रात्रीम् उभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥
उतेशिषे प्रसवस्य त्वम् एक इद् उत पूषा भवसि देव यामभिः ।
उतेदं विश्वम् भुवनं वि राजसि श्यावाश्वस् ते सवितः स्तोमम् आनशे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0