भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.079

5.079.01

महे नो अद्य बोधयोषो राये दिवित्मती ।
यथा चिन् नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

5.079.02

या सुनीथे शौचद्रथे व्य् औच्छो दुहितर् दिवः ।
सा व्य् उच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

5.079.03

सा नो अद्याभरद्वसुर् व्य् उच्छा दुहितर् दिवः ।
यो व्य् औच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

5.079.04

अभि ये त्वा विभावरि स्तोमैर् गृणन्ति वह्नयः ।
मघैर् मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥

5.079.05

यच् चिद् धि ते गणा इमे छदयन्ति मघत्तये ।
परि चिद् वष्टयो दधुर् ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥

5.079.06

ऐषु धा वीरवद् यश उषो मघोनि सूरिषु ।
ये नो राधांस्य् अह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥

5.079.07

तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह ।
ये नो राधांस्य् अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥

5.079.08

उत नो गोमतीर् इष आ वहा दुहितर् दिवः ।
साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर् अर्चिभिः सुजाते अश्वसूनृते ॥

5.079.09

व्य् उच्छा दुहितर् दिवो मा चिरं तनुथा अपः ।
नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥

5.079.10

एतावद् वेद् उषस् त्वम् भूयो वा दातुम् अर्हसि ।
या स्तोतृभ्यो विभावर्य् उच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc