भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.078

5.078.01

अश्विनाव् एह गच्छतं नासत्या मा वि वेनतम् ।
हंसाव् इव पततम् आ सुताँ उप ॥

5.078.02

अश्विना हरिणाव् इव गौराव् इवानु यवसम् ।
हंसाव् इव पततम् आ सुताँ उप ॥

5.078.03

अश्विना वाजिनीवसू जुषेथां यज्ञम् इष्टये ।
हंसाव् इव पततम् आ सुताँ उप ॥

5.078.04

अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव योषा ।
श्येनस्य चिज् जवसा नूतनेनागच्छतम् अश्विना शंतमेन ॥

5.078.05

वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव ।
श्रुतम् मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥

5.078.06

भीताय नाधमानाय ऋषये सप्तवध्रये ।
मायाभिर् अश्विना युवं वृक्षं सं च वि चाचथः ॥

5.078.07

यथा वातः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु निरैतु दशमास्यः ॥

5.078.08

यथा वातो यथा वनं यथा समुद्र एजति ।
एवा त्वं दशमास्य सहावेहि जरायुणा ॥

5.078.09

दश मासाञ् छशयानः कुमारो अधि मातरि ।
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc