भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.080

5.080.01

द्युतद्यामानम् बृहतीम् ऋतेन ऋतावरीम् अरुणप्सुं विभातीम् ।
देवीम् उषसं स्वर् आवहन्तीम् प्रति विप्रासो मतिभिर् जरन्ते ॥

5.080.02

एषा जनं दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य् अग्रे ।
बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यच्छत्य् अग्रे अह्नाम् ॥

5.080.03

एषा गोभिर् अरुणेभिर् युजानास्रेधन्ती रयिम् अप्रायु चक्रे ।
पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥

5.080.04

एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वम् पुरस्तात् ।
ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ॥

5.080.05

एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् ।
अप द्वेषो बाधमाना तमांस्य् उषा दिवो दुहिता ज्योतिषागात् ॥

5.080.06

एषा प्रतीची दुहिता दिवो नॄन् योषेव भद्रा नि रिणीते अप्सः ।
व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः पूर्वथाकः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc