भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.077

5.077.01

प्रातर्यावाणा प्रथमा यजध्वम् पुरा गृध्राद् अररुषः पिबातः ।
प्रातर् हि यज्ञम् अश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥

5.077.02

प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् ।
उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान् ॥

5.077.03

हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न् आ रथो वर्तते वाम् ।
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥

5.077.04

यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम् पित्वो ररते विभागे ।
स तोकम् अस्य पीपरच् छमीभिर् अनूर्ध्वभासः सदम् इत् तुतुर्यात् ॥

5.077.05

सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc