भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.064

5.064.01

वरुणं वो रिशादसम् ऋचा मित्रं हवामहे ।
परि व्रजेव बाह्वोर् जगन्वांसा स्वर्णरम् ॥

5.064.02

ता बाहवा सुचेतुना प्र यन्तम् अस्मा अर्चते ।
शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥

5.064.03

यन् नूनम् अश्यां गतिम् मित्रस्य यायाम् पथा ।
अस्य प्रियस्य शर्मण्य् अहिंसानस्य सश्चिरे ॥

5.064.04

युवाभ्याम् मित्रावरुणोपमं धेयाम् ऋचा ।
यद् ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥

5.064.05

आ नो मित्र सुदीतिभिर् वरुणश् च सधस्थ आ ।
स्वे क्षये मघोनां सखीनां च वृधसे ॥

5.064.06

युवं नो येषु वरुण क्षत्रम् बृहच् च बिभृथः ।
उरु णो वाजसातये कृतं राये स्वस्तये ॥

5.064.07

उच्छन्त्याम् मे यजता देवक्षत्रे रुशद्गवि ।
सुतं सोमं न हस्तिभिर् आ पड्भिर् धावतं नरा बिभ्रताव् अर्चनानसम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc