ऋग्वेद · अध्याय 5.063
ऋतस्य गोपाव् अधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि ।
यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ॥
सम्राजाव् अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा ।
वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥
सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी ।
चित्रेभिर् अभ्रैर् उप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥
माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति चित्रम् आयुधम् ।
तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥
रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु ।
रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥
वाचं सु मित्रावरुणाव् इरावतीम् पर्जन्यश् चित्रां वदति त्विषीमतीम् ।
अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम् अरेपसम् ॥
धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया ।
ऋतेन विश्वम् भुवनं वि राजथः सूर्यम् आ धत्थो दिवि चित्र्यं रथम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0