भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.065

5.065.01

यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः ।
वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥

5.065.02

ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा ।
ता सत्पती ऋतावृध ऋतावाना जने-जने ॥

5.065.03

ता वाम् इयानो ऽवसे पूर्वा उप ब्रुवे सचा ।
स्वश्वासः सु चेतुना वाजाँ अभि प्र दावने ॥

5.065.04

मित्रो अंहोश् चिद् आद् उरु क्षयाय गातुं वनते ।
मित्रस्य हि प्रतूर्वतः सुमतिर् अस्ति विधतः ॥

5.065.05

वयम् मित्रस्यावसि स्याम सप्रथस्तमे ।
अनेहसस् त्वोतयः सत्रा वरुणशेषसः ॥

5.065.06

युवम् मित्रेमं जनं यतथः सं च नयथः ।
मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणां गोपीथे न उरुष्यतम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc