ऋग्वेद · अध्याय 5.062
ऋतेन ऋतम् अपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्य् अश्वान् ।
दश शता सह तस्थुस् तद् एकं देवानां श्रेष्ठं वपुषाम् अपश्यम् ॥
तत् सु वाम् मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे ।
विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आ ववर्त ॥
अधारयतम् पृथिवीम् उत द्याम् मित्रराजाना वरुणा महोभिः ।
वर्धयतम् ओषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥
आ वाम् अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व् अर्वाक् ।
घृतस्य निर्णिग् अनु वर्तते वाम् उप सिन्धवः प्रदिवि क्षरन्ति ॥
अनु श्रुताम् अमतिं वर्धद् उर्वीम् बर्हिर् इव यजुषा रक्षमाणा ।
नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्व् अन्तः ॥
अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्व् अन्तः ।
राजाना क्षत्रम् अहृणीयमाना सहस्रस्थूणम् बिभृथः सह द्वौ ॥
हिरण्यनिर्णिग् अयो अस्य स्थूणा वि भ्राजते दिव्य् अ1श्वाजनीव ।
भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥
हिरण्यरूपम् उषसो व्युष्टाव् अयःस्थूणम् उदिता सूर्यस्य ।
आ रोहथो वरुण मित्र गर्तम् अतश् चक्षाथे अदितिं दितिं च ॥
यद् बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा ।
तेन नो मित्रावरुणाव् अविष्टं सिषासन्तो जिगीवांसः स्याम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0