भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.061

5.061.01

के ष्ठा नरः श्रेष्ठतमा य एक-एक आयय ।
परमस्याः परावतः ॥

5.061.02

क्व1 वो ऽश्वाः क्वा3भीशवः कथं शेक कथा यय ।
पृष्ठे सदो नसोर् यमः ॥

5.061.03

जघने चोद एषां वि सक्थानि नरो यमुः ।
पुत्रकृथे न जनयः ॥

5.061.04

परा वीरास एतन मर्यासो भद्रजानयः ।
अग्नितपो यथासथ ॥

5.061.05

सनत् साश्व्यम् पशुम् उत गव्यं शतावयम् ।
श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत् ॥

5.061.06

उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी ।
अदेवत्राद् अराधसः ॥

5.061.07

वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् ।
देवत्रा कृणुते मनः ॥

5.061.08

उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः ।
स वैरदेय इत् समः ॥

5.061.09

उत मे ऽरपद् युवतिर् ममन्दुषी प्रति श्यावाय वर्तनिम् ।
वि रोहिता पुरुमीळ्हाय येमतुर् विप्राय दीर्घयशसे ॥

5.061.10

यो मे धेनूनां शतं वैददश्विर् यथा ददत् ।
तरन्त इव मंहना ॥

5.061.11

य ईं वहन्त आशुभिः पिबन्तो मदिरम् मधु ।
अत्र श्रवांसि दधिरे ॥

5.061.12

येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्व् आ ।
दिवि रुक्म इवोपरि ॥

5.061.13

युवा स मारुतो गणस् त्वेषरथो अनेद्यः ।
शुभंयावाप्रतिष्कुतः ॥

5.061.14

को वेद नूनम् एषां यत्रा मदन्ति धूतयः ।
ऋतजाता अरेपसः ॥

5.061.15

यूयम् मर्तं विपन्यवः प्रणेतार इत्था धिया ।
श्रोतारो यामहूतिषु ॥

5.061.16

ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः ।
आ यज्ञियासो ववृत्तन ॥

5.061.17

एतम् मे स्तोमम् ऊर्म्ये दार्भ्याय परा वह ।
गिरो देवि रथीर् इव ॥

5.061.18

उत मे वोचताद् इति सुतसोमे रथवीतौ ।
न कामो अप वेति मे ॥

5.061.19

एष क्षेति रथवीतिर् मघवा गोमतीर् अनु ।
पर्वतेष्व् अपश्रितः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc