भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.059

5.059.01

प्र वः स्पळ् अक्रन् सुविताय दावने ऽर्चा दिवे प्र पृथिव्या ऋतम् भरे ।
उक्षन्ते अश्वान् तरुषन्त आ रजो ऽनु स्वम् भानुं श्रथयन्ते अर्णवैः ॥

5.059.02

अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति व्यथिर् यती ।
दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे नरः ॥

5.059.03

गवाम् इव श्रियसे शृङ्गम् उत्तमं सूर्यो न चक्षू रजसो विसर्जने ।
अत्या इव सुभ्व1श् चारवः स्थन मर्या इव श्रियसे चेतथा नरः ॥

5.059.04

को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह पौंस्या ।
यूयं ह भूमिं किरणं न रेजथ प्र यद् भरध्वे सुविताय दावने ॥

5.059.05

अश्वा इवेद् अरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः ।
मर्या इव सुवृधो वावृधुर् नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥

5.059.06

ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वावृधुः ।
सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥

5.059.07

वयो न ये श्रेणीः पप्तुर् ओजसान्तान् दिवो बृहतः सानुनस् परि ।
अश्वास एषाम् उभये यथा विदुः प्र पर्वतस्य नभनूँर् अचुच्यवुः ॥

5.059.08

मिमातु द्यौर् अदितिर् वीतये नः सं दानुचित्रा उषसो यतन्ताम् ।
आचुच्यवुर् दिव्यं कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc