भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.060

5.060.01

ईळे अग्निं स्ववसं नमोभिर् इह प्रसत्तो वि चयत् कृतं नः ।
रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणिन् मरुतां स्तोमम् ऋध्याम् ॥

5.060.02

आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु ।
वना चिद् उग्रा जिहते नि वो भिया पृथिवी चिद् रेजते पर्वतश् चित् ॥

5.060.03

पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः ।
यत् क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥

5.060.04

वरा इवेद् रैवतासो हिरण्यैर् अभि स्वधाभिस् तन्वः पिपिश्रे ।
श्रिये श्रेयांसस् तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥

5.060.05

अज्येष्ठासो अकनिष्ठास एते सम् भ्रातरो वावृधुः सौभगाय ।
युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥

5.060.06

यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि ष्ठ ।
अतो नो रुद्रा उत वा न्व् अ1स्याग्ने वित्ताद् धविषो यद् यजाम ॥

5.060.07

अग्निश् च यन् मरुतो विश्ववेदसो दिवो वहध्व उत्तराद् अधि ष्णुभिः ।
ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥

5.060.08

अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिः सोमम् पिब मन्दसानो गणश्रिभिः ।
पावकेभिर् विश्वमिन्वेभिर् आयुभिर् वैश्वानर प्रदिवा केतुना सजूः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc