भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.058

5.058.01

तम् उ नूनं तविषीमन्तम् एषां स्तुषे गणम् मारुतं नव्यसीनाम् ।
य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः ॥

5.058.02

त्वेषं गणं तवसं खादिहस्तं धुनिव्रतम् मायिनं दातिवारम् ।
मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥

5.058.03

आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति ।
अयं यो अग्निर् मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥

5.058.04

यूयं राजानम् इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः ।
युष्मद् एति मुष्टिहा बाहुजूतो युष्मत् सदश्वो मरुतः सुवीरः ॥

5.058.05

अरा इवेद् अचरमा अहेव प्र-प्र जायन्ते अकवा महोभिः ।
पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम् मिमिक्षुः ॥

5.058.06

यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीळुपविभिर् मरुतो रथेभिः ।
क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु द्यौः ॥

5.058.07

प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भं स्वम् इच् छवो धुः ।
वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥

5.058.08

हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः ।
सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc