ऋग्वेद · अध्याय 5.056
अग्ने शर्धन्तम् आ गणम् पिष्टं रुक्मेभिर् अञ्जिभिः ।
विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि ॥
यथा चिन् मन्यसे हृदा तद् इन् मे जग्मुर् आशसः ।
ये ते नेदिष्ठं हवनान्य् आगमन् तान् वर्ध भीमसंदृशः ॥
मीळ्हुष्मतीव पृथिवी पराहता मदन्त्य् एत्य् अस्मद् आ ।
ऋक्षो न वो मरुतः शिमीवाँ अमो दुध्रो गौर् इव भीमयुः ॥
नि ये रिणन्त्य् ओजसा वृथा गावो न दुर्धुरः ।
अश्मानं चित् स्वर्य1म् पर्वतं गिरिम् प्र च्यावयन्ति यामभिः ॥
उत् तिष्ठ नूनम् एषां स्तोमैः समुक्षितानाम् ।
मरुताम् पुरुतमम् अपूर्व्यं गवां सर्गम् इव ह्वये ॥
युङ्ग्ध्वं ह्य् अरुषी रथे युङ्ग्ध्वं रथेषु रोहितः ।
युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥
उत स्य वाज्य् अरुषस् तुविष्वणिर् इह स्म धायि दर्शतः ।
मा वो यामेषु मरुतश् चिरं करत् प्र तं रथेषु चोदत ॥
रथं नु मारुतं वयं श्रवस्युम् आ हुवामहे ।
आ यस्मिन् तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥
तं वः शर्धं रथेशुभं त्वेषम् पनस्युम् आ हुवे ।
यस्मिन् सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0