ऋग्वेद · अध्याय 5.055
प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद् वयो दधिरे रुक्मवक्षसः ।
ईयन्ते अश्वैः सुयमेभिर् आशुभिः शुभं याताम् अनु रथा अवृत्सत ॥
स्वयं दधिध्वे तविषीं यथा विद बृहन् महान्त उर्विया वि राजथ ।
उतान्तरिक्षम् ममिरे व्य् ओजसा शुभं याताम् अनु रथा अवृत्सत ॥
साकं जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरं वावृधुर् नरः ।
विरोकिणः सूर्यस्येव रश्मयः शुभं याताम् अनु रथा अवृत्सत ॥
आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् ।
उतो अस्माँ अमृतत्वे दधातन शुभं याताम् अनु रथा अवृत्सत ॥
उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ।
न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥
यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वं हिरण्ययान् प्रत्य् अत्काँ अमुग्ध्वम् ।
विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभं याताम् अनु रथा अवृत्सत ॥
न पर्वता न नद्यो वरन्त वो यत्राचिध्वम् मरुतो गच्छथेद् उ तत् ।
उत द्यावापृथिवी याथना परि शुभं याताम् अनु रथा अवृत्सत ॥
यत् पूर्व्यम् मरुतो यच् च नूतनं यद् उद्यते वसवो यच् च शस्यते ।
विश्वस्य तस्य भवथा नवेदसः शुभं याताम् अनु रथा अवृत्सत ॥
मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन ।
अधि स्तोत्रस्य सख्यस्य गातन शुभं याताम् अनु रथा अवृत्सत ॥
यूयम् अस्मान् नयत वस्यो अच्छा निर् अंहतिभ्यो मरुतो गृणानाः ।
जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0