ऋग्वेद · अध्याय 5.057
आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन ।
इयं वो अस्मत् प्रति हर्यते मतिस् तृष्णजे न दिव उत्सा उदन्यवे ॥
वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः ।
स्वश्वाः स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥
धूनुथ द्याम् पर्वतान् दाशुषे वसु नि वो वना जिहते यामनो भिया ।
कोपयथ पृथिवीम् पृश्निमातरः शुभे यद् उग्राः पृषतीर् अयुग्ध्वम् ॥
वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः ।
पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौर् इवोरवः ॥
पुरुद्रप्सा अञ्जिमन्तः सुदानवस् त्वेषसंदृशो अनवभ्रराधसः ।
सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥
ऋष्टयो वो मरुतो अंसयोर् अधि सह ओजो बाह्वोर् वो बलं हितम् ।
नृम्णा शीर्षस्व् आयुधा रथेषु वो विश्वा वः श्रीर् अधि तनूषु पिपिशे ॥
गोमद् अश्वावद् रथवत् सुवीरं चन्द्रवद् राधो मरुतो ददा नः ।
प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वो ऽवसो दैव्यस्य ॥
हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः ।
सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0