ऋग्वेद · अध्याय 5.054
प्र शर्धाय मारुताय स्वभानव इमां वाचम् अनजा पर्वतच्युते ।
घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णम् अर्चत ॥
प्र वो मरुतस् तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः ।
सं विद्युता दधति वाशति त्रितः स्वरन्त्य् आपो ऽवना परिज्रयः ॥
विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः ।
अब्दया चिन् मुहुर् आ ह्रादुनीवृतः स्तनयदमा रभसा उदोजसः ॥
व्य् अ1क्तून् रुद्रा व्य् अहानि शिक्वसो व्य् अ1न्तरिक्षं वि रजांसि धूतयः ।
वि यद् अज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥
तद् वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् ।
एता न यामे अगृभीतशोचिषो ऽनश्वदां यन् न्य् अयातना गिरिम् ॥
अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षं कपनेव वेधसः ।
अध स्मा नो अरमतिं सजोषसश् चक्षुर् इव यन्तम् अनु नेषथा सुगम् ॥
न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति ।
नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥
नियुत्वन्तो ग्रामजितो यथा नरो ऽर्यमणो न मरुतः कबन्धिनः ।
पिन्वन्त्य् उत्सं यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम् मध्वो अन्धसा ॥
प्रवत्वतीयम् पृथिवी मरुद्भ्यः प्रवत्वती द्यौर् भवति प्रयद्भ्यः ।
प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥
यन् मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः ।
न वो ऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम् अश्नुथ ॥
अंसेषु व ऋष्टयः पत्सु खादयो वक्षःसु रुक्मा मरुतो रथे शुभः ।
अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥
तं नाकम् अर्यो अगृभीतशोचिषं रुशत् पिप्पलम् मरुतो वि धूनुथ ।
सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषं विततम् ऋतायवः ॥
युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो3 वयस्वतः ।
न यो युच्छति तिष्यो3 यथा दिवो3 ऽस्मे रारन्त मरुतः सहस्रिणम् ॥
यूयं रयिम् मरुतः स्पार्हवीरं यूयम् ऋषिम् अवथ सामविप्रम् ।
यूयम् अर्वन्तम् भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥
तद् वो यामि द्रविणं सद्यऊतयो येना स्व1र् ण ततनाम नॄँर् अभि ।
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0