ऋग्वेद · अध्याय 5.053
को वेद जानम् एषां को वा पुरा सुम्नेष्व् आस मरुताम् ।
यद् युयुज्रे किलास्यः ॥
ऐतान् रथेषु तस्थुषः कः शुश्राव कथा ययुः ।
कस्मै सस्रुः सुदासे अन्व् आपय इळाभिर् वृष्टयः सह ॥
ते म आहुर् य आययुर् उप द्युभिर् विभिर् मदे ।
नरो मर्या अरेपस इमान् पश्यन्न् इति ष्टुहि ॥
ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु ।
श्राया रथेषु धन्वसु ॥
युष्माकं स्मा रथाँ अनु मुदे दधे मरुतो जीरदानवः ।
वृष्टी द्यावो यतीर् इव ॥
आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः ।
वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥
ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर् धेनवो यथा ।
स्यन्ना अश्वा इवाध्वनो विमोचने वि यद् वर्तन्त एन्यः ॥
आ यात मरुतो दिव आन्तरिक्षाद् अमाद् उत ।
माव स्थात परावतः ॥
मा वो रसानितभा कुभा क्रुमुर् मा वः सिन्धुर् नि रीरमत् ।
मा वः परि ष्ठात् सरयुः पुरीषिण्य् अस्मे इत् सुम्नम् अस्तु वः ॥
तं वः शर्धं रथानां त्वेषं गणम् मारुतं नव्यसीनाम् ।
अनु प्र यन्ति वृष्टयः ॥
शर्धं-शर्धं व एषां व्रातं-व्रातं गणं-गणं सुशस्तिभिः ।
अनु क्रामेम धीतिभिः ॥
कस्मा अद्य सुजाताय रातहव्याय प्र ययुः ।
एना यामेन मरुतः ॥
येन तोकाय तनयाय धान्य1म् बीजं वहध्वे अक्षितम् ।
अस्मभ्यं तद् धत्तन यद् व ईमहे राधो विश्वायु सौभगम् ॥
अतीयाम निदस् तिरः स्वस्तिभिर् हित्वावद्यम् अरातीः ।
वृष्ट्वी शं योर् आप उस्रि भेषजं स्याम मरुतः सह ॥
सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः ।
यं त्रायध्वे स्याम ते ॥
स्तुहि भोजान् स्तुवतो अस्य यामनि रणन् गावो न यवसे ।
यतः पूर्वाँ इव सखीँर् अनु ह्वय गिरा गृणीहि कामिनः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0