ऋग्वेद · अध्याय 5.043
आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर् उप नो यन्तु मध्वा ।
महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥
आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे ।
पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव् अविष्टाम् ॥
अध्वर्यवश् चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् ।
होतेव नः प्रथमः पाह्य् अस्य देव मध्वो ररिमा ते मदाय ॥
दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता ।
मध्वो रसं सुगभस्तिर् गिरिष्ठां चनिश्चदद् दुदुहे शुक्रम् अंशुः ॥
असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय ।
हरी रथे सुधुरा योगे अर्वाग् इन्द्र प्रिया कृणुहि हूयमानः ॥
आ नो महीम् अरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् ।
मधोर् मदाय बृहतीम् ऋतज्ञाम् आग्ने वह पथिभिर् देवयानैः ॥
अञ्जन्ति यम् प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः ।
पितुर् न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निम् ऋतयन्न् असादि ॥
अच्छा मही बृहती शंतमा गीर् दूतो न गन्त्व् अश्विना हुवध्यै ।
मयोभुवा सरथा यातम् अर्वाग् गन्तं निधिं धुरम् आणिर् न नाभिम् ॥
प्र तव्यसो नमüक्तिं तुरस्याहम् पूष्ण उत वायोर् अदिक्षि ।
या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥
आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो हुवानः ।
यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥
आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥
आ वेधसं नीलपृष्ठम् बृहन्तम् बृहस्पतिं सदने सादयध्वम् ।
सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम ॥
आ धर्णसिर् बृहद्दिवो रराणो विश्वेभिर् गन्त्व् ओमभिर् हुवानः ।
ग्ना वसान ओषधीर् अमृध्रस् त्रिधातुशृङ्गो वृषभो वयोधाः ॥
मातुष् पदे परमे शुक्र आयोर् विपन्यवो रास्पिरासो अग्मन् ।
सुशेव्यं नमसा रातहव्याः शिशुम् मृजन्त्य् आयवो न वासे ॥
बृहद् वयो बृहते तुभ्यम् अग्ने धियाजुरो मिथुनासः सचन्त ।
देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥
उरौ देवा अनिबाधे स्याम ॥
सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0