ऋग्वेद · अध्याय 5.042
प्र शंतमा वरुणं दीधिती गीर् मित्रम् भगम् अदितिं नूनम् अश्याः ।
पृषद्योनिः पञ्चहोता शृणोत्व् अतूर्तपन्था असुरो मयोभुः ॥
प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुं न माता हृद्यं सुशेवम् ।
ब्रह्म प्रियं देवहितं यद् अस्त्य् अहम् मित्रे वरुणे यन् मयोभु ॥
उद् ईरय कवितमं कवीनाम् उनत्तैनम् अभि मध्वा घृतेन ।
स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥
सम् इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्ति ।
सम् ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमत्या यज्ञियानाम् ॥
देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् ।
ऋभुक्षा वाज उत वा पुरंधिर् अवन्तु नो अमृतासस् तुरासः ॥
मरुत्वतो अप्रतीतस्य जिष्णोर् अजूर्यतः प्र ब्रवामा कृतानि ।
न ते पूर्वे मघवन् नापरासो न वीर्य1ं नूतनः कश् चनाप ॥
उप स्तुहि प्रथमं रत्नधेयम् बृहस्पतिं सनितारं धनानाम् ।
यः शंसते स्तुवते शम्भविष्ठः पुरूवसुर् आगमज् जोहुवानम् ॥
तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः ।
ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास् तेषु रायः ॥
विसर्माणं कृणुहि वित्तम् एषां ये भुञ्जते अपृणन्तो न उक्थैः ।
अपव्रतान् प्रसवे वावृधानान् ब्रह्मद्विषः सूर्याद् यावयस्व ॥
य ओहते रक्षसो देववीताव् अचक्रेभिस् तम् मरुतो नि यात ।
यो वः शमीं शशमानस्य निन्दात् तुच्छ्यान् कामान् करते सिष्विदानः ॥
तम् उ ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वा महे सौमनसाय रुद्रं नमोभिर् देवम् असुरं दुवस्य ॥
दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर् नद्यो विभ्वतष्टाः ।
सरस्वती बृहद्दिवोत राका दशस्यन्तीर् वरिवस्यन्तु शुभ्राः ॥
प्र सू महे सुशरणाय मेधां गिरम् भरे नव्यसीं जायमानाम् ।
य आहना दुहितुर् वक्षणासु रूपा मिनानो अकृणोद् इदं नः ॥
प्र सुष्टुतिः स्तनयन्तं रुवन्तम् इळस् पतिं जरितर् नूनम् अश्याः ।
यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥
एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर् युवन्यूँर् उद् अश्याः ।
कामो राये हवते मा स्वस्त्य् उप स्तुहि पृषदश्वाँ अयासः ॥
प्रैष स्तोमः पृथिवीम् अन्तरिक्षं वनस्पतीँर् ओषधी राये अश्याः ।
देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ॥
उरौ देवा अनिबाधे स्याम ॥
सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0