भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.044

5.044.01

तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदं स्वर्विदम् ।
प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु वर्धसे ॥

5.044.02

श्रिये सुदृशीर् उपरस्य याः स्वर् विरोचमानः ककुभाम् अचोदते ।
सुगोपा असि न दभाय सुक्रतो परो मायाभिर् ऋत आस नाम ते ॥

5.044.03

अत्यं हविः सचते सच् च धातु चारिष्टगातुः स होता सहोभरिः ।
प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो विस्रुहा हितः ॥

5.044.04

प्र व एते सुयुजो यामन्न् इष्टये नीचीर् अमुष्मै यम्य ऋतावृधः ।
सुयन्तुभिः सर्वशासैर् अभीशुभिः क्रिविर् नामानि प्रवणे मुषायति ॥

5.044.05

संजर्भुराणस् तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः ।
धारवाकेष्व् ऋजुगाथ शोभसे वर्धस्व पत्नीर् अभि जीवो अध्वरे ॥

5.044.06

यादृग् एव ददृशे तादृग् उच्यते सं छायया दधिरे सिध्रयाप्स्व् आ ।
महीम् अस्मभ्यम् उरुषाम् उरु ज्रयो बृहत् सुवीरम् अनपच्युतं सहः ॥

5.044.07

वेत्य् अग्रुर् जनिवान् वा अति स्पृधः समर्यता मनसा सूर्यः कविः ।
घ्रंसं रक्षन्तम् परि विश्वतो गयम् अस्माकं शर्म वनवत् स्वावसुः ॥

5.044.08

ज्यायांसम् अस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते ।
यादृश्मिन् धायि तम् अपस्यया विदद् य उ स्वयं वहते सो अरं करत् ॥

5.044.09

समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न् आयता ।
अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते पूतबन्धनी ॥

5.044.10

स हि क्षत्रस्य मनसस्य चित्तिभिर् एवावदस्य यजतस्य सध्रेः ।
अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिद् अर्ध्यम् ॥

5.044.11

श्येन आसाम् अदितिः कक्ष्यो3 मदो विश्ववारस्य यजतस्य मायिनः ।
सम् अन्यम्-अन्यम् अर्थयन्त्य् एतवे विदुर् विषाणम् परिपानम् अन्ति ते ॥

5.044.12

सदापृणो यजतो वि द्विषो वधीद् बाहुवृक्तः श्रुतवित् तर्यो वः सचा ।
उभा स वरा प्रत्य् एति भाति च यद् ईं गणम् भजते सुप्रयावभिः ॥

5.044.13

सुतम्भरो यजमानस्य सत्पतिर् विश्वासाम् ऊधः स धियाम् उदञ्चनः ।
भरद् धेनू रसवच् छिश्रिये पयो ऽनुब्रुवाणो अध्य् एति न स्वपन् ॥

5.044.14

यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति ।
यो जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥

5.044.15

अग्निर् जागार तम् ऋचः कामयन्ते ऽग्निर् जागार तम् उ सामानि यन्ति ।
अग्निर् जागार तम् अयं सोम आह तवाहम् अस्मि सख्ये न्योकाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc