ऋग्वेद · अध्याय 5.041
को नु वाम् मित्रावरुणाव् ऋतायन् दिवो वा महः पार्थिवस्य वा दे ।
ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥
ते नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतो जुषन्त ।
नमोभिर् वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥
आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन् रथ्यस्य पुष्टौ ।
उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥
प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः ।
पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुर् आश्वश्वतमाः ॥
प्र वो रयिं युक्ताश्वम् भरध्वं राय एषे ऽवसे दधीत धीः ।
सुशेव एवैर् औशिजस्य होता ये व एवा मरुतस् तुराणाम् ॥
प्र वो वायुं रथयुजं कृणुध्वम् प्र देवं विप्रम् पनितारम् अर्कैः ।
इषुध्यव ऋतसापः पुरंधीर् वस्वीर् नो अत्र पत्नीर् आ धिये धुः ॥
उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश् चितयद्भिर् अर्कैः ।
उषासानक्ता विदुषीव विश्वम् आ हा वहतो मर्त्याय यज्ञम् ॥
अभि वो अर्चे पोष्यावतो नॄन् वास्तोष् पतिं त्वष्टारं रराणः ।
धन्या सजोषा धिषणा नमोभिर् वनस्पतीँर् ओषधी राय एषे ॥
तुजे नस् तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः ।
पनित आप्त्यो यजतः सदा नो वर्धान् नः शंसं नर्यो अभिष्टौ ॥
वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातम् अपां सुवृक्ति ।
गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥
कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय ।
आप ओषधीर् उत नो ऽवन्तु द्यौर् वना गिरयो वृक्षकेशाः ॥
शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् तरीयाँ इषिरः परिज्मा ।
शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥
विदा चिन् नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः ।
वयश् चन सुभ्व1 आव यन्ति क्षुभा मर्तम् अनुयतं वधस्नैः ॥
आ दैव्यानि पार्थिवानि जन्मापश् चाच्छा सुमखाय वोचम् ।
वर्धन्तां द्यावो गिरश् चन्द्राग्रा उदा वर्धन्ताम् अभिषाता अर्णाः ॥
पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश् च ।
सिषक्तु माता मही रसा नः स्मत् सूरिभिर् ऋजुहस्त ऋजुवनिः ॥
कथा दाशेम नमसा सुदानून् एवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ ।
मा नो ऽहिर् बुध्न्यो रिषे धाद् अस्माकम् भूद् उपमातिवनिः ॥
इति चिन् नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः ।
अत्रा शिवां तन्वो धासिम् अस्या जरां चिन् मे निरृतिर् जग्रसीत ॥
तां वो देवाः सुमतिम् ऊर्जयन्तीम् इषम् अश्याम वसवः शसा गोः ।
सा नः सुदानुर् मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥
अभि न इळा यूथस्य माता स्मन् नदीभिर् उर्वशी वा गृणातु ।
उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥
सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0