भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.040

5.040.01

आ याह्य् अद्रिभिः सुतं सोमं सोमपते पिब ।
वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥

5.040.02

वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥

5.040.03

वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः ।
वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम ॥

5.040.04

ऋजीषी वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा ।
युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यंदिने सवने मत्सद् इन्द्रः ॥

5.040.05

यत् त्वा सूर्य स्वर्भानुस् तमसाविध्यद् आसुरः ।
अक्षेत्रविद् यथा मुग्धो भुवनान्य् अदीधयुः ॥

5.040.06

स्वर्भानोर् अध यद् इन्द्र माया अवो दिवो वर्तमाना अवाहन् ।
गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्दद् अत्रिः ॥

5.040.07

मा माम् इमं तव सन्तम् अत्र इरस्या द्रुग्धो भियसा नि गारीत् ।
त्वम् मित्रो असि सत्यराधास् तौ मेहावतं वरुणश् च राजा ॥

5.040.08

ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान् नमसोपशिक्षन् ।
अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया अघुक्षत् ॥

5.040.09

यं वै सूर्यं स्वर्भानुस् तमसाविध्यद् आसुरः ।
अत्रयस् तम् अन्व् अविन्दन् नह्य् अ1न्ये अशक्नुवन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc